केनोपनिषत् ४.२ – तस्मै स होवाच
तस्मै स होवाच
यथा गार्ग्य मरीचयोऽर्कस्यास्तं गच्छतः सर्वा एतस्मिंस्तेजोमण्डल एकीभवन्ति
ताः पुनरुदयतः प्रचरन्त्येवं ह वै तत्सर्वं
परे देवे मनस्यकीभवति
तेन तर्ह्येष पुरुषो न शृणोति
न पश्यति न जिघ्रति न रसयते
न स्पृशते नाभिवदते नादत्ते
नानन्दयते न विसृजते नेयायते स्वपितीत्याचक्षते॥२॥
उक्तप्रश्नानामुत्तरं पिप्पलादः क्रमेणाह –
तस्मै गार्ग्याय सः पिप्पलादः ह किल उवाच उक्तवान्। किमुक्तवानित्याकाङ्क्षायां मनःप्राणव्यतिरिक्तानि सर्वकरणानि स्वपन्तीति वक्तुं तावद्दृष्टान्तमाह – यथेति।
गार्ग्य यथा येन प्रकारेण अर्कस्य सूर्यस्य अस्तंगच्छतः सायङ्कालेऽदर्शनं व्रजतः मरीचयः किरणाः सर्वाः निखिलाः एतस्मिन् सर्वजनप्रत्यक्षे तेजोमण्डले तेजोराशिरूपे एकीभवन्ति विवेकानर्हत्वं तेजोमण्डले एकस्वरूपतां गच्छन्ति पुनः भूयः सूर्य्यमण्डले एकतां गताः ताः मरीचयः पुनः भूयो द्वितीय दिवसे उदयतः उदयं गच्छतः सूर्य्यस्य प्रचरन्ति सर्वासु दिक्षु संचारं कुर्वन्ति।
एवं दृष्टान्तमुक्त्वा दार्ष्टान्तिकमाह – एवमिति। एवं सूर्य्यमरीचिवत् ह प्रसिद्धं वै स्मर्यमाणं तत् वागादिकं मरीचिस्थानीयं सर्वं निखिलं परे उत्कृष्टे वागादिवृत्त्युत्पत्तिनिरोधनिमित्ते द्योतनवति देवे सर्वव्यवहारकारणे मनसि अन्तःकरणेऽर्कस्थानीये एकीभवति स्वप्नकाले निर्विशेषतां गच्छति। तेन वागादेर्मनस्येकीभवनेन तर्हि तस्मिन् स्वापकाले एषः लोकप्रत्यक्षः पुरुषः देवतादिलक्षणः न शृणोति शब्दश्रवणं न करोति। न पश्यति नावलोकयति॥ न जिघ्रति, सुरभ्यसुरभिलक्षणं गन्धं न गृह्णाति। न रसयते मधुरादिकं रसं न गृह्णाति। न स्पृशते शीतोष्णादिस्पर्शं न जानाति। नाभिवदते अभिवन्दनं संभाषणं न करोति। नादत्ते किमपि वस्तुग्रहणं न करोति। नानन्दयते उपस्थेन्द्रियकर्मभूतमानन्दं न गृह्णाति। उपस्थेन्द्रियेण सुखं नानुभवतीति यावत्। न विसृजते पायुना मलत्यागं न करोति। नेयायते गत्यर्थस्येणो यङन्तस्यैतद्रूपं छान्दसं न गच्छतीत्यर्थः। स्वपिति शयनं करोति इति एवं आचक्षते कथयन्ति विद्वांस इति शेषः। कानि स्वपन्तीत्यस्य प्रश्नस्य श्रोत्रादिज्ञानेन्द्रियाणि। वागादिकर्मेन्द्रियाणि च स्वपन्तीत्यस्योत्तरं दत्तम्॥२॥