ॐ गुरुपरमात्मने नमः



बृ॰उ॰ २.४.६ – सर्वं तं परादात्

ब्रह्म तं परादाद्योऽन्यत्राऽऽत्मनो ब्रह्म वेद
क्षत्रं तं परादाद्योऽन्यत्राऽऽत्मनः क्षत्रं वेद
लोकास्तं परादुर्योऽन्यत्राऽऽत्मनो लोकान्वेद
देवास्तं परादुर्योऽन्यत्राऽऽत्मनो देवान्वेद
भूतानि तं परादुर्योऽन्यत्राऽऽत्मनो भूतानि वेद
सर्वं तं परादाद्योऽन्यत्राऽऽत्मनः सर्वं वेद
इदं ब्रह्मेदं क्षत्रमिमे लोका इमे देवा इमानि भूतानीद‍ꣳ सर्वं यदयमात्मा॥६॥

यः कोऽप्यात्मनः सकाशादन्यत्र पार्थक्येन ब्रह्म ब्राह्मणजातिं वेद मन्यते तमयथार्थदर्शिनं ब्रह्म ब्राह्मणजातिः परादात् पराकुर्यात् कैवल्यासंबन्धिनं कुर्यादयमनात्मस्वरूपेण मां पश्यतीति। अपराधात् – परमात्मा हि सर्वेषामात्मा।

क्षत्रं तं परादादित्यादि पूर्ववत्। उक्तं सर्वमनूद्य तस्याऽऽत्मानतिरिक्तत्वमित्युपसंहरति – इदं ब्रह्मेत्यादिना। यदयं योऽयमात्मा द्रष्टव्य इति प्रकृतः स एवेदं सर्वमुक्तमनुक्तं च न ततः पृथगस्तीत्यर्थः॥६॥