ॐ गुरुपरमात्मने नमः



बृ॰उ॰ १.४.१० – योऽन्यां देवतामुपास्ते

अथ योऽन्यां देवतामुपास्तेऽन्योऽसा- वन्योऽहमस्मीति न स वेद यथा पशुरेव स देवानाम्।

यः कश्चिदब्रह्मवित्स्वात्मनि कर्तृत्वमङ्गीकृत्याऽऽत्मनो व्यतिरिक्तां देवतां अन्योऽहं उपास्यदेवतायाः सकाशात् अन्योऽसौ मत्त उपासनीयो देव इत्येवं भेददृष्ट्या उपास्ते स्तुतिनमस्कारादिना उपासको न वेद उपास्योपासकयोस्तत्त्वं न जानाति। न केवलमेवंभूतोपासकोऽविद्यादोषवानेव किन्तु पशुसदृशोऽपि भवतीत्याह – यथेति। यथा गवाश्वादिपशुर्दोहनवाहनाद्युपकारैरुपभुज्यत एवं एव सोऽविद्वान् देवानां मध्य एकैकस्यापि देवस्य पशुवदनेकैरुपकारैरुपभोग्यो भवति।