छा॰उ॰ ३.१४.१ – यथाक्रतुरस्मिन्
प्रतीकद्वारेण ब्रह्मोपासनमुक्त्वेदानीं प्रतीकं हित्वा सगुणब्रह्मोपासनमाह –
सर्वं खल्विदं ब्रह्म तज्जलानिति शान्त उपासीताथ खलु क्रतुमयः पुरुषो यथाक्रतुरस्मिँल्लोके पुरुषो भवति तथेतः प्रेत्य भवति स क्रतुं कुर्वीत॥१॥
तज्जलान् तस्माद्ब्रह्मणो जगज्जायत इति तज्जं, तस्मिल्लीयत इति तल्लं, तस्मिन्ननिति चेष्टते स्थितिकाल इति तदनं, तज्जं च तल्लं च तदनं चैतेषां समाहारस्तज्जलानम्। अवयवलोपश्छांदसः।
तज्जलान् तज्जत्वात्तल्लत्वात्तदन- त्वाच्चेत्येतस्माद्धेतोस्त्रिषु कालेषु ब्रह्मव्यतिरेकेण जगतोऽनिरूपणात्तदात्मत्वेनावशिष्टं सर्वं खल्विदं जगद् ब्रह्म एवेत्येवं निश्चयपूर्वकं शान्तो रागद्वेषादिरहितः सन्नुपासीत। शान्तो भवेदिति शमगुणविधिपरमिदं वाक्यमित्यर्थः। शमं विधाय तद्वतः प्रयोजनोक्तिरूपहेतूक्तिपूर्वकं कर्तव्यमिति(?) युनक्ति – अथेति।
अथशब्दो हेत्वर्थः। यस्मात् खलु क्रतुमयः क्रतुप्रायोऽध्यवसायात्मकः पुरुषो यथास्मिँल्लोके वर्तमानदेहे भवति तथा तादृगेव क्रतुफलात्मक इतोऽस्माद्देहात् प्रेत्य मृत्वा भवति। तस्मात् सः शान्तः क्रतुं अविचलप्रत्ययं कुर्वीत॥१॥