कठोपनिषत् २.२.१६ – न तत्र सूर्यो भाति
न तत्र सूर्यो भाति न चन्द्रतारकं नेमा विद्युतो भाति कुतोऽयमग्निः।
तमेव भान्तमनुभाति सर्वं तस्य भासा सर्वमिदं विभाति॥१६॥
तत्र तस्मिन् स्वात्मभूते ब्रह्मणि सर्वावभासकोपि सूर्यो न भाति न तद्ब्रह्म प्रकाशयति न चन्द्रतारकं चन्द्रश्च तारकाश्च तेषां समाहारः चन्द्रतारकं न भाति न प्रकाशति इमाः सर्वजनप्रसिद्धाः विद्युतः तडितो न भान्ति न भासयन्ति अयं अस्मद्दृष्टिविषयोऽग्निः कुतः कथं भायान्न भायादेव न भासयेदेवेत्यर्थः। तमेव आनन्दात्मानमेव भान्तं दीप्यमानं सन्तं सर्वं सूर्यादिकं अनुभाति तत्प्रकाशानन्तरं प्रकाशाश्रयो भवतीत्यर्थः। ननु गच्छन्तः पुरुषस्य स्वतन्त्रगतिवत्तेषामपि स्वतन्त्रः प्रकाशः किं न स्यादित्यत आह – तस्येति। तस्य स्वप्रकाशरूपस्य ब्रह्मणो भासा दीप्त्या सर्वमिदं उक्तं सूर्यादिकं सर्वे विभाति प्रकाशाश्रयो भवति। न स्वतन्त्रप्रकाशवानित्यर्थः॥१६॥