कठोपनिषत् २.३.१३ – नैव वाचा न मनसा
नैव वाचा न मनसा प्राप्तुं शक्यो न चक्षुषा॥१३॥
अयमात्मा वाचा वागिन्द्रियेण प्राप्तुं न शक्यः इदंतया वक्तुं योग्यो न भवति। मनसा संकल्पादिरूपेणासंस्कृतेन मनसा प्राप्तुं न शक्यः ज्ञातुं योग्यो न भवति। चक्षुषा चक्षुरिन्द्रियेण प्राप्तुं न शक्यः द्रष्टुं योग्यो न भवतीत्यर्थः॥