ॐ गुरुपरमात्मने नमः



केनोपनिषत् १.५ – यन्मनसा न मनुते

यन्मनसा न मनुते येनाहुर्मनो मतम्।
तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते॥५॥

यत् प्रसिद्धं चैतन्यज्योतिः मनसा मनोबुद्धिरूपान्तःकरणेन न मनुते कोऽपि पुरुषो न जानाति येन मनसाऽविज्ञातेन चैतन्यज्योतिषा मनः मनोबुद्धिरूपमन्तःकरणं मतं विज्ञातं स्वकार्यकरणे समर्थम् आहुः कथयन्ति ब्रह्मविदः तदेव मनसः प्रकाशकं चैतन्यमेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते इत्यादि व्याख्यातं पूर्वम्। एतेन केनेषितं मन इत्यस्योत्तरमुक्तं भवति॥५॥

(नेदं मनोविषयभूतं न ब्रह्मेति शेषः। इदंशब्दार्थमेवाह – यत् प्रसिद्धम् इदं उपाधिविशिष्टं ज्ञातृज्ञानज्ञेयभेदवदनात्मरूपं उपासते ध्यायन्ति जनाः। तन्न ब्रह्मेत्यर्थः॥४॥)