तैत्तिरीयोपनिषत् ४.९ – यतो वाचो निवर्तन्ते
यतो वाचो निवर्त्तन्ते आप्राप्य मनसा सह।
यतो यस्मात् अद्वयानन्दात्मनः स्वप्रकाशरूपात् वाचः वाचकाः शब्दाः द्रव्यादिसविकल्पवस्तुविषयाः वस्तुत्वसामान्यात् निर्विकल्पवस्तुप्रकाशनाय प्रयोक्तृभिः प्रयुक्ता अपि मनसा सह शब्दशक्तिजनितविज्ञानेन सह अप्राप्य तमप्रकाश्यैव निवर्तन्ते स्वशक्तिहीना भवन्ति।