ॐ गुरुपरमात्मने नमः



केनोपनिषत् १.० – मङ्गलम्

ॐ वागादीन्द्रियग्रामं मनः प्राणं धियं वपुः।
प्रेरयति हृदिशो यस्तं वन्दे कृष्णविग्रहम्॥१॥

हृदिविद्यागुरूणां तु निधाय पदपङ्कजम्। केनोपनिषदि व्याख्या संक्षिप्ता क्रियते मया॥२॥

ॐ आप्यायन्तु ममाङ्गानि
वाक् प्राणश्चक्षुःश्रोत्रमथो बलमन्द्रियाणि च सर्वाणि।
सर्व ब्रह्मोपनिषदं,
माहं ब्रह्म निराकुर्याम्,
मा मा ब्रह्म निराकरोत्
अनिराकरणमस्त्वनिराकरणमस्तु
तदात्मनि निरते य उपनिषत्सु धर्मास्ते मयि सन्तु ते मयि सन्तु॥

ॐ शान्तिः शान्तिः शान्तिः॥

आप्यायन्त्विति। मम मुमुक्षोः अङ्गानि करचरणादीनि वाग् इतीतरकर्मेन्द्रियाणामुपलक्षणम्। प्राण इत्यपानादीनामुलक्षणम्। चक्षुःश्रोत्रं इतीतरज्ञानेन्द्रियाणामुपलक्षणम्। तथा मम सर्वाणि इन्द्रियाणि बलं प्राणपञ्चकं च आप्यायन्तु ब्रह्मध्यानानुकूलतया वृद्धिं प्राप्नुवन्तु। सर्वं निखिलं उपनिषदम् औपनिषदं ब्रह्म ब्रह्मैव। ब्रह्मसत्तातिरिक्तसत्ताशून्यं निखिलमिति यावत्। अहं ब्रह्मातिरिक्तवस्त्वस्तीति वा ब्रह्म नास्तीति वा ब्रह्म मा निराकुर्यां मा तिरस्कुर्याम्। मा मां ब्रह्म मा निराकरोत्। स्वस्मान्मा वियोजयतु संसारे मा पातयत्विति यावत्। अनिराकरणमस्तु आवयोः परस्परं प्रीतिरेवास्तु। तदात्मनि ब्रह्मात्मनि निरते निरन्तरं प्रेम कुर्वति मयि ये शमादय उपनिषत्सु वेदान्तेषु प्रकाशिता धर्मास्ते धर्माः मयि सन्तु। आवृत्तिरादरार्था। शान्तिशब्दस्य त्रिरुक्तिस्त्वध्यात्मिकादित्रिविधविघ्नप्रशान्त्यर्थमिति बोध्यम्॥