केनोपनिषत् १.१ – केनेषितं पतति
अथ सामवेदे तलवकारशाखायां केनोपनिषत्।
इतः पूर्वमष्टाध्याय्यां कर्माण्युपासनानि च चित्तशुद्ध्यर्थान्युक्तानि। इदानीं तु कर्मोपासनाभ्यां शुद्धचित्तस्य मुमुक्षोर्मोक्षसाधनभूता ब्रह्मविद्युच्यते इति नवमाध्यायस्यारम्भः। मानान्तरानधिगतं ब्रह्मास्य विषयः। तद्विद्याद्वारा मुक्तिः प्रयोजनम्। विषयेण सह प्रन्थस्य प्रतिपाद्यप्रतिपादकभावः सम्बन्धः। शुद्धान्तकरणो मुमुक्षुः साधनचतुष्टयसम्पन्नो ऽधिकारी इत्यनुबन्धचतुष्टयं प्रेक्षावतां प्रवृत्त्यङ्गभूतं तावत्सिद्धम्। तत्रापि प्रतिपाद्यस्य ब्रह्मात्मतत्त्वस्यातिसूक्ष्मत्वात् तत्प्रतिपत्तिसौकर्यार्थं गुरुशिष्यसंवाद इवोच्यते। तत्रादौ शिष्यः पृच्छति –
केनेषितं पतति प्रेषितं मनः
केन प्राणः प्रथमः प्रैति युक्तः।
केनेषितां वाचमिमां वदन्ति
चक्षुःश्रोत्रं क उ देवो युनक्ति॥१॥
केन कर्त्रा सताऽसता वा, चेतनेनाचेतनेन वा, भिन्नेनाभिन्नेन वा, इषितं सन्निधिमात्रेण प्रेरितं सत् मनः सङ्कल्पविकल्पात्मकं पतति नियमेन स्वविषयं प्रति गच्छति।
सामान्यतः प्रेरयितारं पृष्ट्वा विशेषतस्तं पृच्छति प्रेषितमिति। प्रकर्षेण सन्निधितोऽधिकव्यापारेण प्रेरितमित्यर्थः। इषितं प्रेषितमित्यत्रेटि सति गुणाभावः छान्दसः॥
ननु – कूटस्थस्यैव मुमुक्षुभिर्जिज्ञास्यत्वात् तस्य चाक्रियत्वात् केन प्रेषितम् इति प्रेषकप्रश्नो नोपपद्यते इति चेन्न। विकारी, तद्भिन्नो वा प्रेरक इति सन्देहवतो मुमुक्षोः तथाविधप्रश्नोपपत्तेः। *१ प्रेषितमिवेति वाऽर्थः।
*१. प्रेषितपदस्य द्वितीयोऽर्थः।
किञ्च केन कर्त्रा युक्तः प्रयुक्तः प्रेरितः प्राणः पञ्चवृत्त्यात्मको ऽध्यात्मादिभेदभिन्नः क्रियाशक्तिः। प्रथमः इन्द्रियप्रवृत्तितः प्राक् प्रवृत्तत्वात् मुख्यः प्रैति ऊर्ध्वादिदेशेषु गच्छति।
केन कर्त्रा इषितां प्रेरितां इमां तालव्याद्यष्टस्थानेषु स्थितां वाचं वागिन्द्रियरूपां वदन्ति समुच्चारयन्ति जना इति शेषः। वागिन्द्रियस्य शब्दाभेदोपचारेण वदनीयत्वोक्तिर्बोध्या। चक्षुःश्रोत्रं चक्षुश्चश्रोत्रं च क उ कः प्रसिद्धः देवः दीप्तिमान् युनक्ति प्रेरयतीत्यर्थः॥१॥