ॐ गुरुपरमात्मने नमः



केनोपनिषत् १.२ – श्रोत्रस्य श्रोत्रम्

एवं शिष्येण पृष्टो गुरुराह –

श्रोत्रस्य श्रोत्रं मनसो मनो यद्
वाचो ह वाचं स उ प्राणस्य प्राणः
चक्षुषश्चक्षुरतिमुच्य धीराः
प्रेत्यास्माल्लोकादमृता भवन्ति॥२॥

यत् यो मनआदीनां प्रेरकः त्वया पृष्टः स उ स एव श्रोत्रस्य शब्दोपलब्धेरसाधारणकारणस्य श्रोत्रेन्द्रियस्य श्रोत्रं शब्दग्रहणसामर्थ्यकारणम् मनसः सर्वविषयोपलब्धेः साधारणकारणस्य मनः स्वविषये प्रवृत्तिसामर्थ्यकारणम्। वाचो वागिन्द्रियस्य प्रसिद्धस्य वाचं शब्दोच्चारणसामर्थ्यस्य कारणम्। वाचमिति द्वितीया *१ प्रथमात्वेन विपरिणमनीया।

*१. वाक् प्रथमातः

प्राणस्य पञ्चवृत्त्यात्मकस्य प्राणस्य प्राणः शरीरधारणसामर्थ्यस्य कारणम्। चक्षुषः चक्षुरिन्द्रियस्य चक्षुः रूपस्वरूपवतश्चोपलब्धिसामर्थ्यस्य कारणम्।

अयमर्थः – श्रोत्रादीनां स्वस्वविषये प्रवृत्तिनियमस्य कारणभूतः श्रोत्रादिविलक्षणः चेतनोऽस्ति। “संहतानां प्रासादादिवत् परार्थत्वनियमा”दिति। चक्षुषश्चक्षुरित्यतोऽनन्तरं तज्ज्ञात्वा इति शेषः।

धीराः धीमन्तो ब्रह्मविदः अतिमुच्य श्रोत्रादावात्मबुद्धिं त्यक्त्वा अस्मात् सर्वप्राणिप्रत्यक्षात् लोकात् लोकपदवाच्यात् कार्यकारणसंघाताभिमानात् प्रेत्य व्यावृत्य तदभिमानं त्यक्त्वेति यावत्। अमृताः मरणरहिता मुक्ताः भवन्ति इति स्पष्टम्॥२॥