ॐ गुरुपरमात्मने नमः



केनोपनिषत् १.३ – न तत्र चक्षुर्गच्छति

ननु – येन प्रेरितं सन्मनआदिकं गच्छति तदिदमितीदन्तया कुतो न प्रदर्श्यत इत्यत आह –

न तत्र चक्षुर्गच्छति न वाग्गच्छति नो मनो
न विद्मो न विजानीमो यथैतदनुशिष्याद्
अन्यदेव तद्विदितादथो अविदितादधि
इति शुश्रुम पूर्वेषां ये नस्तद्वाचचक्षिरे॥३॥

तत्र श्रोत्रादीनां श्रोत्रादिरूपे ब्रह्मणि चक्षुः रूपग्राहकं चक्षुरिन्द्रियं गच्छति न प्राप्नोति रूपादिहीनत्वाद्ब्रह्मणः। ननु – चक्षुरग्राह्येऽपि स्वर्गादौ वाग्विषयत्वदर्शनादस्तु वाग्विषयं ब्रह्मेत्यत आह – न वाग्गच्छतीति। वाचा ह्युच्चार्यमाणः शब्दोऽभिधेयं यदा प्रकाशयति तदाऽभिधेयं प्रति वाग्गच्छतीत्युच्यते। ब्रह्मणस्तु शब्दस्य तज्जनककारणस्य *१ चात्मत्वान्न तत्र वाग्गच्छतीत्यर्थः।

*१. वागिन्द्रियस्य

अस्तु तर्हि मनसो विषयो ब्रह्मेत्यत आह – नो मन इति। मनो ह्यन्यस्य सङ्कल्पयितृ भवति नात्मनः। मनसोऽप्यात्मभूतं ब्रह्म। अतः तत्र *२ मनो न गच्छति। तद्ब्रह्म न सङ्कल्पयतीत्यर्थः।

*२. ब्रह्मणि

चक्षुरादीनामविषयत्वादेव न विद्मः श्रोत्रस्य श्रोत्रमित्यादिनोक्तोपदेशमन्तरेणात्मदर्शनोपायं स्वबुद्ध्या वयं न जानीमः। न विजानीमः विशेषतः शास्त्राचार्योपदेशतोऽपि तं प्रकारं नाधिगच्छामः। यथा येन प्रकारेण एतत् ‘श्रोत्रस्य श्रोत्रम्’ इत्यादिनोक्तं ब्रह्म अनुशिष्यात् मादृशो गुरुः त्वादृशं शिष्यं श्रोत्रस्य श्रोत्रमित्यादिनोपदिश्य पश्चात् इदन्तयोपदिशेत्। अनिदंरूपस्य निर्विशेषस्य सर्वसाक्षिणो ब्रह्मणः श्रोत्रादिशेषित्वेनैव प्रदर्शनं युक्तमिति भावः।

ननु निर्विशेषत्वमेव ब्रह्मणो न युक्तं सर्वलोकप्रसिद्धाभ्यां ज्ञातत्वाज्ञातत्वाभ्यामन्यतरविशेषणेन विशेषणीयत्वादित्याशङ्कयाह – अन्यदिति।

तत् श्रोत्रस्य श्रोत्रमित्यादिनोक्तं ब्रह्म विदितात् ज्ञानविषयात् अन्यदेव पृथगेव। किन्तर्ह्यज्ञातस्वरूपं *३ तदित्यत आह – अथो अपि अविदितात् ज्ञानाविषयादव्याकृतात् अधि अन्यदेव |

*३. ब्रह्म

यद्धि ज्ञानक्रियया ज्ञातुर्भाति तज्ज्ञातम्। यथा प्रत्यक्षं कार्यजातम्। यत्तु ज्ञानक्रियया ज्ञातुर्न भाति तदज्ञानम्। यथा परोक्षं कारणम्। ब्रह्म तु ज्ञातुरात्मत्वान्नित्यमेव भाति। न तु ज्ञानक्रिययेति भावः। ननु स्वकपोलकल्पितमेवेदमित्याशङ्कयाह – इतीति। इति उक्तप्रकारकं वचनं पूर्वेषाम् आचार्याणां शुश्रुम वयं श्रुतवन्तः। ननु – के ते इत्यत आह – ये प्रसिद्धाः शास्त्रविदः नः अस्मभ्यमधिकारिभ्यः तत् श्रोत्रस्य श्रोत्रमित्यादिनोक्तं ब्रह्म व्याचचक्षिरे आसमन्तादुक्तवन्तः। एतेन गुरुमुखादेव विद्यावगतिर्भवति नान्यथेति सूचितम्॥३॥