ॐ गुरुपरमात्मने नमः



केनोपनिषत् १.४ – यद्वाचानभ्युदितम्

वागाद्यविषयत्वेनैव तदवगन्तव्यं, नान्यथेति मन्त्रपञ्चकेनाह –

यद्वाचानभ्युदितं येन वागभ्युद्यते।
तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते॥४॥

यत् प्रसिद्धम् आत्मस्वरूपं वाचा वागिन्द्रियरूपया वर्णपदादिरूपया वा अनभ्युदितं इदन्तयाऽप्रकाशितं येन प्रसिद्धेन ज्योतिषा वाक् वागिन्द्रियम् अभ्युद्यते स्वव्यापारक्षमा भवति। तदेव वाचाऽप्रकाशितलक्षणमेव ब्रह्म देशकालवस्तुपरिच्छेदरहितं त्वम् अस्मच्छिष्यः विद्धि जानीहि। एतेन “केनेषितां वाचमिमा”मित्यस्योत्तरमुक्तं भवति। नेदं वागादिविषयभूतं न ब्रह्मेति शेषः। इदं शब्दार्थमेवाह – यत् प्रसिद्धम् इदम् उपाधिविशिष्टं ज्ञातृज्ञानज्ञेयभेदवदनात्मरूपम् उपासते ध्यायन्ति जनाः। तन्न ब्रह्मेत्यर्थः॥४॥