केनोपनिषत् १.५ – यन्मनसा न मनुते
यन्मनसा न मनुते येनाहुर्मनो मतम्।
तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते॥५॥
यत् प्रसिद्धं चैतन्यज्योतिः मनसा मनोबुद्धिरूपान्तःकरणेन न मनुते कोऽपि पुरुषो न जानाति येन मनसाऽविज्ञातेन चैतन्यज्योतिषा मनः मनोबुद्धिरूपमन्तःकरणं मतं विज्ञातं स्वकार्यकरणे समर्थम् आहुः कथयन्ति ब्रह्मविदः तदेव मनसः प्रकाशकं चैतन्यमेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते इत्यादि व्याख्यातं पूर्वम्। एतेन “केनेषितं मन” इत्यस्योत्तरमुक्तं भवति॥५॥