केनोपनिषत् १.६ – यच्चक्षुषा न पश्यति
यच्चक्षुषा न पश्यति येन चक्षूंषि पश्यति।
तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते॥६॥
यत् आत्मज्योतिः चक्षुषा रूपग्राहकचक्षुरिन्द्रियेण न पश्यति लोके नावलोकयति येन चैतन्येन चक्षूंषि बहुवचनं छान्दसं, चक्षुरिन्द्रियं पश्यति रूपं गृह्णाति। तदेव उक्तलक्षणमेव ब्रह्म त्वं विद्धीत्याद्युक्तार्थम्॥