केनोपनिषत् १.७ – यच्छ्रोत्रेण न शृणोति
यच्छ्रोत्रेण न शृणोति येन श्रोत्रमिदँ श्रुतम्।
तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते॥७॥
यत् चैतन्यं श्रोत्रेण शब्दोपलब्धिसाधनेन श्रोत्रेन्द्रियेण न शृणोति कोऽपि न विषयीकरोति येन चैतन्येन इदं कर्णशष्कुलीवति श्रोत्रं श्रोत्रेन्द्रियं श्रुतं स्वकार्यक्षमं भवतीत्यर्थः। तदेवेत्युद्युक्तार्थं यच्चक्षुषेत्यादिमन्त्रद्वयेन। “चक्षुःश्रोत्र क उ देवो युनक्ती”त्यस्योत्तरं दत्तम्॥७॥