ॐ गुरुपरमात्मने नमः



केनोपनिषत् १.८ – यत्प्राणेन न प्राणिति

यत्प्राणेन न प्राणिति येन प्राणः प्रणीयते।
तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते॥८॥
इति प्रथमः खण्डः॥१॥

यत् चैतन्यं प्राणेन प्राणापानादिपञ्चवृत्तिरूपेण न प्राणिति प्राणचेष्टां न करोति येन चैतन्येन प्राणः पञ्चवृत्तिरूपः प्रणीयते शरीरधारणलक्षणं स्वव्यापारं करोति तदेवेत्याद्युक्तार्थम्। एतेन “केन प्राण” इत्यादेरुत्तरं दत्तम्।

श्रोत्रस्य श्रोत्रमित्यत्र सामान्येनोक्तस्यैव विशेषेण कथनान्न पुनरुक्तिः। यद्वा श्रोत्रस्य श्रोत्रमित्यत्र कण्ठतस्तदुत्तरमुक्तम्। अत्र तु वागादीन्द्रियविषयत्वप्रतिपादनेनार्थादुत्तरमुक्तमिति न पुनरुक्तिः॥८॥

इति प्रथमः खण्डः॥१॥