केनोपनिषत् २.१ – यदि मन्यसे सुवेदेति
इदानीमसम्भावनादिदोषाच्छिष्यस्याबोधमन्यथाबोधंं चाशङ्क्य तन्निराकर्तुं गुरुराह –
यदि मन्यसे सुवेदेति
दभ्रमेवापि नूनं त्वं वेत्थ ब्रह्मणो रूपं
यदस्य त्वं यदस्य च देवेष्वथ नु
मीमांस्यमेव ते
मन्ये विदितम्॥९॥१॥
सुवेद भवद्भिरुक्तं ब्रह्म सुष्ठु विषयतयाऽहं जानामि इति एवं यदि त्वं मन्यसे संभावयसि, अपिशब्दः तर्ह्यर्थे। तर्हि नूनं निश्चितं दभ्रमेव अल्पमेव ब्रह्मणो देशकालवस्तुशून्यस्य रूपं स्वरूपं त्वं हे शिष्य वेत्थ जानीषे।
अल्पस्वरूपवेदितृत्वे हेतुमाह – यदिति। अस्य ब्रह्मणः यत् प्रसिद्धं त्वं त्वदात्मकं वेदितृरूपं अस्य ब्रह्मणः यत् शास्त्रप्रसिद्धं देवेषु इन्द्राग्न्यादिषु मध्ये अधिदैवतं कार्य्यब्रह्मात्मकं वेद्यं रूपमस्ति तदुभयमपि यस्मादल्पमेव।
यद्वा – अस्य ब्रह्मणो यद्रूपं त्वं वेत्थ तत् तदल्पमेव त्वं वेत्थ देवेषु मध्ये यः कश्चित् अस्य यद्रूपं सुवेदेति त्वमिव मन्यते तत् सोऽप्यल्पमेव ब्रह्मणो रूपं वेत्तीत्यर्थः।
अथ नु तस्मादेव ते त्वया मीमांस्यमेव विचारणीयमेव ब्रह्मस्वरूपमित्यर्थः।
एवमाचार्येणोक्तः शिष्य एकान्ते आगमार्थं विचार्य तर्कतश्च निर्धार्य स्वानुभवं च कृत्वाऽऽचार्यसमीपं गत्वोवाच “मन्ये विदितं” इति। विदितं ज्ञातं मया ब्रह्मेति मन्येऽहं जानामीत्यर्थः॥९॥१॥