ॐ गुरुपरमात्मने नमः



केनोपनिषत् २.२ – नाहं मन्ये सुवेदेति

विदितत्वे हेतुमाह –

नाहं मन्ये सुवेदेति नो न वेदेति वेद च।
यो नस्तद्वेद तद्वेद नो न वेदेति वेद च॥१०॥२॥

अह-शब्द एवकारार्थे नञा सम्बध्यते।

सर्वत्र मूलभाष्यादिपुस्तकेषु ‘नाहं’ इति पाठः। अत्र तु टीकाकृदङ्गीकृतपाठानुरोधात् ‘नाह’ इति धृतः एतत्पाठप्रामाण्यं तु टीकाकृदेव वेत्ति।

सुवेद प्रकृतं ब्रह्म अहं सुष्ठु जानामि इति नैव मन्ये। नो न वेदेति। न वेद उक्तं ब्रह्म न जानामीत्यपि नो मन्ये। तर्हि किं सन्दिग्धमित्यत आह – वेद च इति। जानामि च इत्यर्थः।

चकाराज्जानन्नपि भेदबुद्धेरभावान्न जानामि। सुवेदेत्यनेन ब्रह्मणो दुर्विज्ञेयत्वं दर्शितम्। नो न वेदेत्यनेन शास्त्रकगम्यत्वमुक्तम्। वेदपदेन संशयादिराहित्यमुक्तम्। चकारेण सर्वभेदभक्षकः साक्षात्कार उक्तः। तथा च दुर्विज्ञेयशास्त्रकगम्यासन्दिग्धसर्वभेदशून्यं ब्रह्माहमस्मीति वाक्यार्थः।

नः अस्माकं शिष्याणां मध्ये यः मदन्योऽपि कश्चित् तत् मदुक्तं वचनं वेद जानाति, स पुरुषोऽपि तत् श्रोत्रस्य श्रोत्रमित्यादिनोक्तं ब्रह्म वेद जानाति। किं पुनस्तद्वचनमित्यत आह – नो न वेदेति वेद च। कारो नोशब्देतिशब्दयोरनुवृत्त्यर्थः। न वेद ब्रह्म न जानामीति नो वेद च जानामीत्यपि नो, ब्रह्मणो विदिताविदिताभ्यामन्यत्वात्। तस्माद्ब्रह्म वेदैव स इत्यभिप्रायः १०॥॥२॥