ॐ गुरुपरमात्मने नमः



केनोपनिषत् २.३ – यस्यामतं तस्य मतम्

एवं गुरुशिष्यसंवादसिद्धमर्थं श्रुतिः स्वयमुपसंहरति –

यस्यामतं तस्य मतं मतं यस्य न वेद सः
अविज्ञातं विजानतां विज्ञातमविजानताम्॥११॥३॥

यस्य विदुषः अमतं कर्तृकर्मादिरूपेणानधिगतं ब्रह्मेत्यभिप्रायः, तस्य त्रिपुट्यवगाहिज्ञानागोचराभिप्रायवतः मतं विज्ञातं भवति। यस्य अविदुषः मतं त्रिपुट्यवगाहिज्ञानविषयं ब्रह्मेत्यभिप्रायः। उक्ताभिप्रायवान् न वेद त्रिविधभेदरहितं ब्रह्म न जानाति। भेददर्शितत्वात्। विद्वदविदुषोरुक्तपक्षद्वये हेतुमाह – अविज्ञातमिति। यतः विजानतां विविधप्रमातृप्रमाणप्रमेयादिज्ञानवतामविदुषाम् अविज्ञातम् अविदितं ब्रह्म, अविजानतां विविधप्रमात्रादिभेदज्ञानरहितानां विशेष(षे)णावगतम् – त्रिविधपरिच्छेदशून्यब्रह्माहमस्मीति निश्चितमित्यर्थः॥११॥३॥