केनोपनिषत् २.४ – प्रतिबोधविदितं मतम्
नन्ववेद्यस्य ब्रह्मणः कथं भानं स्यादित्याशङ्कयाह –
प्रतिबोधविदितं मतममृतत्वं हि विन्दते।
आत्मना विन्दते वीर्यं विद्यया विन्दतेऽमृतम् ॥१२॥४॥
वीप्सायामव्ययीभावः। बोधपदं बुद्धिवृत्तिपरं। तथा च बोधं प्रति विदितं सर्वबुद्धिवृत्तिसाक्षित्वेनावगतं ब्रह्म मतं ज्ञातं भवतीत्यर्थः। उक्तात्मज्ञानस्य फलमाह – अमृतत्वमिति। हि यस्मादुक्तब्रह्मात्मज्ञानादमृतत्वं मोक्षं विन्दते लभते। आत्मज्ञानेनामृतत्वलामे उपपत्तिमाह – आत्मनेति। आत्मना समाहितेन मनसा वीर्यं गुरूपदिष्टविद्यारूपं सामर्थ्यमविद्यानिवृत्तिकारणं विन्दते लभते। विद्यया गुरूपदिष्टात्मज्ञानेन अमृतं जन्ममरणरहितं सर्वाधिष्ठानरूपमात्मानं विन्दते लभते नित्यलब्धस्यात्मनो लाभस्तु कण्ठस्थमणिप्राप्तिवदौपचारिक इत्यर्थः॥१२॥४॥