केनोपनिषत् २.५ – इह चेदवेदीत्
यतोऽज्ञानादेव नानायोनिष्वनेकविधकष्टं पुरुषोऽनुभवत्यतोऽस्मिन्नेव शरीरे आत्मा ज्ञातव्य इत्याह
इह चेदवेदीतथ सत्यमस्ति न चेदिहावेदीन्महती विनष्टिः।
भूतेषु भूतेषु विचित्य धीराः प्रेत्यास्माल्लोकादमृता भवन्ति॥१३॥५॥
इति द्वितीयः खण्डः॥२॥
इह अस्मिन्नधिकारिशरीरे चेत् यदि अवेदीत् आत्मानं ज्ञातवान् अथ तदा सत्यं ब्रह्मानन्दात्मकं फलम् अस्ति विद्यते, चेत् यदि इह उक्ताधिकारिशरीरे नावेदीत् अहं ब्रह्मास्मीति साक्षात्कारं न कृतवान्। तदा महती दीर्घकालीना विनष्टिः जन्ममरणादिक्लेशप्राप्तिरूपविनाशो भवतीति श्रुत्या सानुक्रोशमिदमुक्तम्। न ह्यस्मिन्देहे सफलमात्मज्ञानं दुर्लभमस्ति। विद्वद्वनुभवसिद्धत्वादित्याह – भूतेष्विति। भूतेषु भूतेषु इति वीप्सा चतुर्विधप्राणिसंग्रहार्था। चराचरप्राणिषु स्थितं प्रत्यग्ब्रह्म विचित्य साक्षात्कृत्य धीराः बुद्धिमन्तो विद्वांसः अस्माल्लोकात् अहंममाभिमानलक्षणऽविद्यारूपात् प्रेत्य निवृत्य अमृताः मरणरहिताः मुक्ता भवन्तीत्यर्थः॥५॥
इति द्वितीयः खण्डः॥२॥