केनोपनिषत् ३.१ – ब्रह्म ह देवेभ्यो विजिग्ये
उत्तमाधिकारिगोचरं निर्गुणब्रह्मात्मना ज्ञानमुक्त्वाऽधुना मन्दमत्यनुजिघृक्षया सगुणब्रह्मोपासनां विधित्सुराह –
ब्रह्म ह देवेभ्यो विजिग्ये तस्य ह ब्रह्मणो
विजये देवा अमहीयन्त।
त ऐक्षन्तास्माकमेवायं
विजयोऽस्माकमेवायं महिमेति॥१४॥१॥
ब्रह्म सच्चिदानन्दलक्षणं ह किल देवेभ्यः देवानामनुग्रहार्थं विजिग्ये देवानां लोकद्वयप्रतिकूलानसुरान् जितवत्, तस्य पूर्वोक्तस्य ह किल ब्रह्मणः साच्चदानन्दरूपस्य विजये असुराणां परिभवलक्षणजये सति देवाः इन्द्राग्निवायुप्रभृतयः अमहीयन्त पूजिता अभवन्। ते इन्द्रादयो ऽविज्ञातब्रह्मस्वरूपाः ऐक्षन्त वक्ष्यमाणलक्षणमीक्षणं विचारं कृतवन्तः। ईक्षणप्रकारमाह – अस्माकमिति। अस्माकमेव कार्यकारणसंघाताभिमानिनामिन्द्राग्न्यादीनामेव अयम् अस्मद्दृष्टिगोचरः विजयः असुरपरिभवरूप उत्कर्षः अस्माकमेवायमिति व्याख्यातम्। महिमा सर्वेभ्यः स्तुतिपूजादिलाभलक्षणमहत्वम्, इति एवं ऐक्षन्तेति पूर्वेणान्वयः॥१४॥१॥