ॐ गुरुपरमात्मने नमः



केनोपनिषत् ३.२ – तद्धैषां विजज्ञौ

तद्धैषां विजज्ञौ तेभ्यो ह प्रादुर्बभूव
तन्न व्यजानन्त किमिदं यक्षमिति॥१५॥२॥

तत् असुरपरिभावकं ब्रह्म किल एषां इन्द्रादीनां मिथ्येक्षणं विजज्ञौ विज्ञातवत्। तेभ्यः तेषां मिथ्याभिमानिनां देवानामनुग्रहार्थं किल प्रादुर्बभूव किमपि रूपविशेषं धृत्वा दृष्टिगोचरमागतवत्। तत् प्रादुर्भूतं ब्रह्म न व्यजानन्त देवा नैव विज्ञातवन्तः। इदम् अस्मत्प्रत्यक्षं यक्षं पूज्यं किं किमात्मकं इति एवं न व्यजानन्त इत्यर्थः॥१५॥२॥