ॐ गुरुपरमात्मने नमः



केनोपनिषत् ३.३ – तेऽग्निमब्रुवन्

तेऽग्निमब्रुवन् जातवेद एतद्विजानीहि
किमेतद्यक्षमिति तथेति॥१६॥३॥

ते इन्द्रादयो देवास्तज्जिज्ञासवः अग्निं देवानामग्रगामिनं वह्निं अब्रुवन् उक्तवन्तः। तदुक्तिमाह – जातवेदेति। जातवेद हे अग्ने एतत् अस्मद्गोचरस्थं यक्षं विजानीहि एतत् पुरस्थितं यक्षं किं किंस्वरूपं त्वं बुध्यस्व इति एवमुक्तोऽग्निः तथा तथाऽस्तु इति एवमङ्गीकृत्य॥१६॥३॥