ॐ गुरुपरमात्मने नमः



केनोपनिषत् ३.४ – तदभ्यद्रवत्

तदभ्यद्रवत्तमभ्यवदत् कोऽसीत्यग्निर्वा
अहमस्मीत्यब्रवीज्जातवेदा वा अहमस्मीति॥१७॥४॥

तत् उक्तयक्षं अभ्यद्रवत् तत्समीपं गतवान्, तत् उक्तयक्षः तं स्वसमीपमागतमग्निं अभ्यवदत् प्रत्यभाषत कोऽसि त्वं किन्नामा भवसि इति। एवं यक्षेण पृष्टः स आह – अग्निरिति। अग्निः अग्निनामा वै प्रसिद्धः अहं त्वत्समीपमागतः अस्मि भवामि इति ईदृशं वचनं अब्रवीत् उक्तवान्। विशेषनाम्ना पुनरात्मानं श्लाघयन्नाह – जातवेदा इति। जातवेदाः जातवेदो नामा वै प्रसिद्धः। अहमस्मिइति एवमग्निनोक्ते सति॥१७॥४॥