केनोपनिषत् ३.५ – तस्मिंस्त्वयि किंवीर्यम्
तस्मिंस्त्वयि किं वीर्यमित्यपीदम्ꣳ
सर्वं दहेयं यदिदं पृथिव्यामिति॥१८॥५॥
यक्ष आह – तस्मिन् उक्तनाम्नि त्वयि मत्समीपमागते जातवेदसि किंवीर्यं किंसामर्थ्यमस्ति इति एवं पृष्टोऽग्निराह – अपि संभावनायाम् इदं शुष्कार्द्ररूपं सर्वं निखिलं दहेयं दहनं कुर्याम्। पुनरुक्तिवारणाय सर्वशब्दार्थमाह यदिति। यत् प्रसिद्धं इदं चराचरात्मकं वस्तुजातं पृथिव्यां भूमौ स्थितं पृथिवीग्रहणं चतुर्दशानां भुवनानामुपलक्षणार्थम्। इति एवमग्निनोक्ते सति॥१८॥५॥