ॐ गुरुपरमात्मने नमः



केनोपनिषत् ३.६ – तस्मै तृणं निदधौ

तस्मै तृणं निदधावेतदुपप्रेयाय सर्वजवेन तन्न शशाक दग्धुम्
स तत एव निववृते नैतदशकं विज्ञातुं यदेतद्यक्षमिति॥१९॥६॥

तस्मै तस्योक्ताभिमानवतोऽग्नेरग्रे तृणं क्षुद्रं शुष्कं तृणं निदधौ नितरां स्थापितवत् ब्रह्म स्थापयित्वेदमुवाच एतत् मया स्थापितं शुष्कतृणं दह भस्मीकुरु इति। एवं ब्रह्मणोक्तोऽग्निः तत्पुरः स्थितं तृणं सर्वजवेन स्वकीयेन निखिलवेगेन उपप्रेयाय समीपं प्रकर्षेण गतवान्। तत् तृणं दग्धुं भस्मीकर्तुं न शशाक समर्थो न बभूव सः अग्निर्विगतगर्वः तत एव शुष्कतृणदहनरूपव्यापारादेव निववृते निवृत्तिं चकार व्रीडितः सन् शीघ्रमेव देवान् प्रत्यागत्योवाच – नैतदिति। एतत् अमुकनामकममुकाकृतिर्विशेषमिति विशेषरूपेण विज्ञातुं वेदितुं नाशकम् समर्थो नाभवम्। इति एवमग्निनोक्ते सति॥१९॥६॥