ॐ गुरुपरमात्मने नमः



केनोपनिषत् ३.७ – अथ वायुमब्रुवन्

अथ वायुमब्रुवन् वायवेतद्विजानीहि।
किमेतद्यक्षमिति तथेति॥॥२०॥७॥

अथ अग्निवाक्यश्रवणानन्तरं वायुं सर्वजगतः प्राणं प्रभञ्जनम् अब्रुवन् इन्द्रादयो देवा उक्तवन्तः। तेषामुक्तिमाह – वायो हे वायो एतत् अस्मगोचरस्थं यक्षं विजानीहि विशेषतस्त्वं बुध्यस्व। एतत् यक्षं किं किंस्वरूपम् इति। एवमुक्तो वायुः तथा तथाऽस्तु इति एवमङ्गीकृत्य॥२९॥७॥