केनोपनिषत् ३.८ – तदद्भ्यद्रवत्
तदद्भ्यद्रवत्तमभ्यवदत् कोऽसीति
वायुर्वा अहमस्मीत्यब्रवीन्मातरिश्वा वा अहमस्मीति॥२१॥८॥
तत् उक्तयक्षं अभ्यद्रवत् तत्समीपं गतवान् तं स्वसमीपमागतं वायुं अभ्यवदत् प्रत्यभाषत् कोऽसि त्वं किंनामा भवसि इति एवं यक्षेण पृष्टः स आह – वायुरिति। वायुर्वा वायुनामा वै प्रसिद्धोऽहमस्मि इति एवं अब्रवीत् उक्तवान्। सामान्यतः स्वस्य नामोक्त्त्वा विशेषतः स्वनामाऽऽह – मातरिश्वेति। मातरिश्वा मातर्याकाशे श्वयति गच्छतीति मातरिश्वनामा वै प्रसिद्धाऽहमस्मि त्वत्समीपमागतो भवामि। इति ईदृशवचने वायुनोक्ते सति॥२१॥८॥