ॐ गुरुपरमात्मने नमः



केनोपनिषत् ३.९ – तस्मिंस्त्वयि

तस्मिंस्त्वयि किं वीर्य्यमित्यपीदꣳ
सर्वमाददीयं यदिदं पृथिव्यामिति॥२२॥९॥

तस्मिन् उक्तनाम्नि त्वयि वायौ किंवीर्यं किंसामर्थ्यमस्ति इति एवं पृष्टो वायुराह – अपीति। अपि संभावनायाम्, इदं सर्वमाददीयं गृह्णीयाम्, आदायान्तरिक्षे गमनं कुर्यां यत् प्रसिद्धं इदं स्थावरजङ्गमात्मकं पृथिव्यां भूमौ वस्तुजातं स्थितम्। इति एवं वायुनोक्ते सति॥२३॥९॥