केनोपनिषत् ३.१० – तस्मै तृणं निदधौ
तस्मै तृणं निदधावेतदादत्स्वेति तदुपप्रेयाय
सर्वजवेन
तन्न शशाकादातुं स तत एव निववृते नैतदशकं विज्ञातुं यदेतद्यमिति॥२३॥१०॥
तस्मै तस्य वायोरग्रे तृणं अत्यल्पं शुष्कं स्थावररूपं तृणं निदधौ नितरां पुरः स्थापितवत्। ब्रह्म तत्स्थापयित्वेदं जगौ – एतत् शुष्कं तृणं मया पुरःस्थापितं आदत्स्व त्वं गृहाण आदायान्तरिक्षे नय इति। एवं यक्षेणोक्तो वायुः तत् अग्रे स्थितं तृणं उपप्रेयाय समीपं प्रकर्षेण गतवान्। सर्वजवेन स्वकीयेन निखिलवेगेन तत् यक्षस्थापितं शुष्कं तृणं आदातुं ग्रहीतुं न शशाक शक्तो न बभूव सः वायुः। तत एव तृणग्रहणव्यापारादेव निववृते तस्मान्निवृत्तिं चकार, लज्जितः सन् झटित्येव देवान् प्रत्यागत्योवाच – नैतदिति। एतत् पुरः स्थितं यत् प्रसिद्धं सामान्यतः यक्षरूपं एतत विशेषरूपेण स्थितं विज्ञातुं वेदितुं नाशकं समर्थो नाभवम्। इति एवं वासति॥२४॥१०॥