ॐ गुरुपरमात्मने नमः



केनोपनिषत् ३.११ – अथेन्द्रमब्रुवन्

अथेन्द्रमब्रुवन् मघवन्नेनविजानीहि किमेतद्यक्षमिति।
तथेति तद्भ्यद्रवत् तस्मात्तिरोदधे॥२४॥११॥

अथ विगतगर्वस्य वायोर्वचनश्रवणानन्तरं इन्द्रं परमैश्वर्यसंपन्नं त्रिलोकीनाथम् अब्रुवन् उक्तवन्तः – मघवन् भो इन्द्र एतत् अस्मद्गोचरस्थं यक्षं विजानीहि विशेषतस्त्वं बुध्यस्व एतत् समीपस्थं यक्षं किं किंस्वरूपम्। इति अनेक प्रकारेण वायुनोक्त इन्द्रः तथा तथाऽस्तु इति एवं अङ्गीकृत्य तत् उक्तयक्षं अभ्यद्रवत् तत्समीपं गतवान् तस्मात् स्वसमीपमागतादिन्द्रात् तिरोदधे आत्मानमन्तर्हितं चकार। तस्येन्द्रत्वाभिमानो निराकरणीय इति हेतोरिन्द्रेण सह संभाषणमात्रमपि न कृतवदिति भावः॥२५॥११॥