ॐ गुरुपरमात्मने नमः



केनोपनिषत् ३.१२ – स तस्मिन्नेवाकाशे

स तस्मिन्नेवाकाशे स्त्रियमाजगाम बहुशोभमानामुमां
हैमवतीं ताꣳ होवाच किमेतद्यक्षमिति॥२५॥१२॥
इति तृतीय खण्डः॥

विषण्णमनस्कः इन्द्रः विगताभिमानः सन् तस्मिन्नेवाकाशे यत्र यक्षं स्थितं तत्रैवावकाशप्रदेशे तदैव यक्षं ध्यायन् सन् तस्थाविति शेषः। इन्द्रस्य यक्षे परमभक्तिं ज्ञात्वा स्त्रीरूपेण ब्रह्मविद्या प्रादुर्बभूव। स तां स्त्रियं ब्रह्मविद्यामूर्तिमतीं ददर्शेति शेषः। दृष्ट्वा च आजगाम तस्याः समीपमागतवान्। कथंभूतां स्त्रियं बहुशोभमानाम् अधिककान्तिमतीम् उमां भवानीरूपां ब्रह्मविद्यां हैमवतीं हिमवतस्तनयाम्। यद्वा – हेमकृताभरणवतीं तां उक्तविशेषणां स्त्रियं किल उवाच पप्रच्छ। तदुक्तिमाह – किमेतदिति। एतत अस्मत्पुरःस्थितं यक्षं किं विशेषरूपेण किंनामकम् इति एवमिन्द्रेण पृष्टे सति॥२६॥१२॥

इति तृतीयः खण्डः॥३॥