ॐ गुरुपरमात्मने नमः



केनोपनिषत् ४.१ – सा ब्रह्मेति होवाच

सा ब्रह्मेति होवाच ब्रह्मणो वा एतद्विजये महीयध्वमिति।
ततो हैव विदाञ्चकार ब्रह्मेति॥२६॥१॥

सा इन्द्रेण पृष्टा उमा ब्रह्म देशकालवस्तुपरिच्छेदशून्यं भवतां विजयकारणं इति अनेन प्रकारेण किल उवाच इन्द्रं प्रत्युक्तवती। ब्रह्मेति नामधेयमुक्त्वा तस्य महिमानमप्याह – ब्रह्मणः उक्तलक्षणस्य वै प्रसिद्धस्य एतद्विजये ब्रह्मकर्तृकासुरपरिभवलक्षणो विशेषेण जये सति महीयध्वं स्तुतिपूजादिलाभरूपं महत्त्वं यूयं प्राप्नुथ स्वातन्त्र्याभिमानं मा कुरुत। इति एवमुमयोक्तः इन्द्रः किल तत एव उमावचनादेव विदाञ्चकार ज्ञातवान् न तु स्वतः | तज्ज्ञानप्रकारमाह – ब्रह्मेति ब्रह्म यद्यक्षमन्तर्हितं *१ तद्ब्रह्म, इति एवं ज्ञातवानित्यर्थः॥२६॥१॥

*१. अन्तर्धानं भवति