कठोपनिषत् २.१२ –
इदानीं नचिकेतसा पृष्टा ऽऽत्मनो लाभसाधनं फलं च दर्शयति- १ कामनाविषयत्वगुणयेोगात् कर्मफलं निधिरिव प्रार्थ्यते। २ आपेक्षिकनित्यं स्वर्गा- ख्यं काम्यं पदं किंचित्कालावस्थायित्वात्॥
maniprabha/mani-044-ocr.txt
तं दुर्दर्श गूढमनुप्रविष्टं गुहाहितं गव्हरेष्ठं पुराणम् | अध्यात्मयोगाधिगमेन देव मत्वा धीरो हर्षशोको जहाति॥१२॥
‘यमात्मानं ज्ञातुमिच्छसि तं देवमात्मानं त्वया पृष्टं अध्यात्मयोगाधिगमेन आत्मनि चित्तस्य समाधानमध्यात्मयोगः निदिध्यासनं तस्य लाभेन मत्वा साक्षात्कृत्य धीरो बुद्धिमान् हर्षशोकौ जहाति तद्रहितो भवतीत्यन्वयः। कीदृशं देवमित्याकांक्षायां तद्विशेषणषटुमाह - दुर्दर्शमिति। दुर्दर्श असंयतचित्तै द्रष्टुमशक्यं। गूढं मायाकार्यैरावृतं अनुप्रविष्टं कार्य्यजातं सृष्ट्वा तत्र प्रविष्टं। गुहाहितं बुद्धावुपलभ्यमानत्वात्तत्र स्थितं। गव्हरेष्टं रागद्वेषादि- भिरनर्थैराऽऽयासजनके कार्य्यकरणसंघाते स्थितं। पुराणं सनातनमित्यर्थः॥१२॥