कठोपनिषत् २.११ –
मत्तोपि तव धैर्यमधिकमित्याह –
कामस्याप्तिं जगतः प्रतिष्ठां क्रतोरनन्त्य- । मभयस्य पारम्। स्तोमं महदुरुगायं प्रतिष्ठां ear get aीरो नचिकेतोऽत्यस्राक्षीः॥११॥
कामस्येच्छाविषयभूतस्य सुखस्य आप्तिं समाप्तिस्थानं सर्वस्य कामशब्दितलौ- किकानन्दस्य तत्रैवान्तर्भूतत्वात्। जगतः चराचरात्मकस्य प्रतिष्ठामाधारं। ऋतो– रुपासनायाः फलं हैरण्यगर्भपदं अनन्त्यं अनन्तफलं हिरण्यगर्भपदस्यानंतत्वमा पाक्षिकमेवमुत्तरपदार्थेष्वपि द्रष्टव्यम्। अभयस्य भयराहित्यस्य पारं अवधिभूतं स्तोमं स्तुत्यं महत् अणिमाद्यैश्वर्याद्यनेकगुणोपेतं उरुगायं सर्वागमैरुरुत्वेन पूर्णत्वेन गेयं प्रतिष्ठां आत्मनो निरतिशयस्थितिम्। दृष्ट्वोक्तविशेषणकहिरण्य- गर्भपदस्य नित्यत्वं निश्वित्य धृत्या धैर्येण धीरो धीमान् सन् हे नचिकेत इति संबोधयन् हिरण्यगर्भपदपर्यंतं त्वम् भोग्यजातमत्यस्राक्षीः त्यक्तवानसि। अतस्त्वमनुत्तमगुणोऽसीति भावः॥११॥