ॐ गुरुपरमात्मने नमः



कठोपनिषत् २.१० – जानाम्यहꣳ शेवधिः

मत्तोपि त्वमधिकधैर्यवत्वादुत्कृष्टप्रज्ञासीति वक्तुमादौ स्वप्रज्ञाप्रकर्षमाह –

जानाम्यहꣳ शेवधिरित्यनित्यं न ह्यध्रुवैः प्राप्यते हि ध्रुवं तत्।
ततो मया नचिकेतश्चितोऽग्निरनित्यैर्द्रव्यैः प्राप्तवानस्मि नित्यम्॥१०॥

शेवधिः निधिरिष्टत्वगुणसाम्यात् कर्मफलरूपो निधिरनित्यमनित्य इति एवमहं जानामि। हि यस्मात् ध्रुवं नित्यं मोक्षाख्यं फलं अध्रुवैः अनित्यैः साधनैर्न प्राप्यते तत् तस्मात् कर्मफलमनित्यमेव हि। यस्मात् कर्मफलमनित्यं ततः तस्मात् मया नित्यमनित्यसाधनैर्न प्राप्यते इति जानतापि अनित्यैर्द्रव्यैः पश्वादिलक्षणैरग्निश्चितः स्वर्गसुखसाधनभूतोऽग्निः सम्पादितः। हे नचिकेतः। तेन कर्मणा नित्यं चिरस्थायि याम्यं पदं प्राप्तवानस्मि लब्धवानस्मि, न तु ध्रुवं मोक्षाख्यमिति योजना॥१०॥