कठोपनिषत् २.०९ – नैषा तर्केण मतिरापनेया
ननु स्वबुद्ध्यापि कश्चित्तर्ककुशल आत्मानं ज्ञास्यति किमत्र गुरुणेत्याशङ्क्याह –
नैषा तर्केण मतिरापनेया प्रोक्तान्येनैव सुज्ञानाय प्रेष्ठ।
यां त्वमापः सत्यधृतिर्बतासि त्वादृग् नो
भूयान्नचिकेतः प्रष्टा॥९॥
एषा मतिरात्मविषयिणी बुद्धिस्तर्केण स्वकल्पनामात्रेण नापनेया न प्राप्तव्या।
यद्वा – एषा आचार्योपदेशेन जायमाना मतिः तर्केण कुतर्केण न बाधनीया,
सिंहाद्गौरिव कुतर्काद् रक्षणीयेत्यर्थः।
किञ्च – हे प्रेष्ठ प्रियतम अन्येनैव नास्तिकेभ्यो
भिन्नेन आगमविदाचार्येणैव प्रोक्ता उपदिष्टा सती एषा मतिरात्मस्वरूपाकारा मतिः सुज्ञानायात्मसाक्षात्काराय भवति।
कीदृशी सा मतिरित्यत आह –
यामिति।
यां मतिं त्वमापः मम वरप्रदानेन प्राप्तवानसि।
सत्यधृतिर्बतासि।
बतेत्यनुकम्पायाम्।
सत्या विषयैरबाध्यमाना धृतिर्धैर्यं यस्य स त्वं सत्यधृतिरसीति।
दयां कुर्वन् यम आह – त्वादृगिति।
हे नचिकेतः।
त्वादृक् त्वत्सदृशः प्रष्टा प्रश्नकर्ता नोऽस्माकं पुत्रः शिष्यो वा भूयात् भवत्वित्यर्थः॥९॥