ॐ गुरुपरमात्मने नमः



कठोपनिषत् २.०८ – न नरेणावरेण प्रोक्तः

वक्तृज्ञात्रोर्दुर्लभत्वे हेतुमाह –

न नरेणावरेण प्रोक्त एष सुविज्ञेयो बहुधा चिन्त्यमानः।
अनन्यप्रोक्ते गतिरत्र नास्त्यणीयान् ह्यतर्क्यमणुप्रमाणात्॥८॥

नरेण मनुष्येण अवरेण प्रोक्तः न वरोऽवरोऽपकृष्टस्तेन स्वात्मसाक्षात्कारहीनतालक्षणापकृष्टत्वधर्मवता प्रोक्त उपदिष्टः एष आत्मा न सुविज्ञेयः सम्यक् विज्ञातो न भवति यस्माद् बहुधा अस्ति नास्ति कर्ताऽकर्ता शुद्धोऽशुद्ध इत्यादि बहुप्रकारैः चिन्त्यमानः वादिभिर्ज्ञायमानः। न हि विप्रतिपत्तिमद्भिः पुरुषैरुपदिष्टोऽर्थः सम्यक् ज्ञातो भवतीति भावः। तर्हि केन प्रोक्तः सुज्ञेयः स्यादित्यत आह – अनन्यप्रोक्त इति।

नाहं ब्रह्मणोऽन्यो न मत्तोऽन्यत्किञ्चिदस्तीतिज्ञानवताऽऽचार्येण प्रोक्ते उपदिष्टे अत्र आत्मनि गतिः संशयात्मकं विपर्ययात्मकं वा ज्ञानं नास्ति न जायते।

यद्वा – अनन्यप्रोक्ते न त्वं ब्रह्मणोऽन्य इति शिष्याय आचार्येण प्रोक्ते प्रकर्षेणोपदिष्टे सति अत्रात्मनि गतिः ब्रह्माहमित्यवगतेरन्या गतिः ज्ञानान्तरं नास्ति। ज्ञेयान्तराभावात्।

यद्वा – गतिः देहान्तरप्राप्तिर्नास्ति। ज्ञानिनो मोक्षावश्यकत्वात्।

यद्वा – अनन्येनाचार्येण प्रोक्ते सति अत्रात्मनि अगतिरनवबोधो नास्ति। किन्तु भवत्येवात्मन्यवगतिरित्यर्थः।

नायं केवलतर्केण ज्ञातुं शक्योऽतिसूक्ष्मत्वादित्याह – अणीयानिति। हि यस्मादयमात्मा अणुप्रमाणादल्पपरिमाणादप्यणीयानतिसूक्ष्मः अतोऽतर्क्यं अतर्क्यः। पूर्वोक्ताचार्यमन्तरेण केवलतर्केण ज्ञातुं न शक्य इत्यर्थः॥८॥