कठोपनिषत् २.०७ – श्रवणायापि बहुभिर्यो न लभ्यः
एवं संसारे भ्राम्यतां सहस्राणां पुरुषाणां मध्ये कश्चिदेव मोक्षार्थी भवति तत्रापि कश्श्चिदेव त्वद्विधो निरतिशयानन्दस्वरूपं ब्रह्म प्रत्यक्त्वेन जानाति दुर्विज्ञेयत्वादात्मतत्वस्येत्याह –
श्रवणायापि बहुभिर्यो न लभ्यः शृण्वन्तोऽपि
बहवो यं न विद्युः।
आश्चर्यो वक्ता कुशलोऽस्य
लब्धाऽऽश्चर्यो ज्ञाता कुशलाऽनुशिष्टः॥७॥
य आत्मा श्रवणाय श्रोतुमपि बहुभिरनेकैजनैर्न लभ्यो न लभ्यते। अशुद्धान्तःकरणत्वात्। शृण्वन्तोऽपि उपक्रमादिलिङ्गैस्तात्पर्यावधारणं कुर्वन्तोऽपि बहवोऽनेके जनाः यमात्मानं न विद्युर्नविजानीयुः। एवं श्रोतुर्दुर्लभत्वमुक्त्वा वक्तुर्दुर्लभत्वमाह – आश्चर्य इति। अस्यात्मनो वक्ता कथयितापि आश्चर्यः अतिदुर्लभः। तथा श्रुत्वाप्यस्यात्मनो लब्धा ज्ञातापि कुशलः कश्चिन्निपुण एव भवति। लब्धृदुर्लभत्वे हेतुमाह - आश्चर्य इति। यस्मात् कुशलानुशिष्टः कुशलेन साक्षात्कृतब्रह्मतत्वेनाऽऽचार्येणाऽनुशिष्टो वेदान्तवाक्यैः शिक्षितः सन् ज्ञाता साक्षात्कारवान् आश्चर्यः कोपि विरल एव भवति। तस्मात् कश्चिदेवात्मनो लब्धेति योजना॥७॥