कठोपनिषत् २.०६ – न सम्परायः प्रतिभाति बालम्
एवं शास्त्रविहितकर्मानुष्ठातॄन् निन्दित्वा शास्त्रप्रतिषिद्धकर्म कुर्वाणं निन्दति
न सम्परायः प्रतिभाति बालं प्रमाद्यन्तं वित्तमोहेन मूढम्।
अयं लोको नास्ति पर इति
मानी पुनः पुनर्वशमापद्यते मे ॥२.६॥
सम्यक् परदेहपतनादूर्ध्वमीयते गम्यते इति सम्परायः परलोकस्तत्प्राप्तिहेतुः कर्मप्रणवोपासनादिशास्त्रीयसाधनविशेषः साम्परायः। स च बालं विवेकरहितं पुरुषं न प्रतिभाति ज्ञातो न भवति। तत्र हेतुगर्भितं विशेषणद्वयमाह – प्रमाद्यन्तम्। पुत्रपश्वादिफलेषु संलग्नचित्तं वित्तमोहेन मूढं धनलाभेनाविवेकेनाच्छादितान्तःकरणम्। अयं लोकः योऽयं दृश्यमानः स्त्र्यन्नपानादिविशिष्टो लोकोऽस्ति। परोऽदृश्यमानो लोको नास्ति इति एवं मानी मन्यमानो नरः पुनः पुनः प्रतिजन्म मे मम मृत्योर्वशमापद्यते यमयातनामनुभवतीत्यर्थः। तत्र पूर्वोक्तशास्त्रीयकर्मानुष्ठाना(न?)स्वर्गफलभोगावसाने चिरकालेन मम वशमायाति। शास्त्रप्रतिषिद्धकर्मकर्ता तु जन्मानन्तरमेव मम वशं प्राप्नोतीति पुनः शब्दस्य द्विरुक्तया सूचितम्॥६॥