कठोपनिषत् २.०५ – अविद्यायामन्तरे वर्तमानाः
एवं ज्ञानार्थिनं नचिकेतसं स्तुत्वा शास्त्रविहितकर्मानुष्ठातॄन् सकामान् निन्दति –
अविद्यायामन्तरे वर्तमानाः स्वयं धीराः पण्डितं मन्यमानाः।
दन्द्रम्यमाणाः परियन्ति मूढा
अन्धेनैव नीयमाना यथाऽन्धाः॥५॥
अविद्यायामन्तरे वर्तमानाः अविद्यातत्कार्यनिरूपिताभिमानवन्तः मूढा अविवेकिनः धीराः लौकिकप्रज्ञावन्तो वयमिति स्वयमात्मानं मन्यमानाः विजानन्तः पण्डितं शास्त्रीयप्रज्ञावन्तं चात्मानं मन्यमानाः दन्द्रम्यमाणाः अत्यन्तकुटिलामनेकरूपां गतिमिच्छन्तः परियन्तं नानाविधमनर्थं प्राप्नुवन्ति। तत्र दृष्टान्तमाह – अन्धेनेति। अन्धेनैव चक्षुरिन्द्रियरहितेनैव पुरुषेण नीयमाना कुमार्गे प्राप्यमाणाः बहवोऽन्धा यथा कण्टकवेधादिजन्यनानाऽनर्थं प्राप्नुवन्ति। तथा कर्मिणोऽज्ञाः संसारानर्थं प्राप्नुवन्तीत्यर्थः। धूममार्गेण स्वर्गं जिगमिषूणां गुरुरपि मूढ एवेत्यन्धजनदृष्टान्तेन सूचितम्॥२.५॥