ॐ गुरुपरमात्मने नमः



कठोपनिषत् २.०४ – दूरमेते विपरीते विषूची

'’तयोः श्रेय आददानस्य साधु भवति। हीयतेऽर्थाद्य उ प्रेयो वृणीते’’ इत्युक्तं। तत्र हेतुं वक्तुं विद्याविद्ययोः स्वरूपतः फलतश्व विरोधमाह –

दूरमेते विपरीते विषूची अविद्या या च विद्येति ज्ञाता।
विद्याभीप्सिनं नचिकेतसं मन्ये न त्वा कामा बहवोऽलोलुपन्तः॥२.४॥

एते वक्ष्यमाणस्वरूपे दूरं अत्यन्तं विपरीते स्वरूपतो विलक्षणे विषूची विषूच्यौ नानागती भिन्नफले। एते के इत्यत आह – अविद्येति। या कर्मकाण्डप्रसिद्धा अविद्या अभ्युदयसाधनं कर्म। चकारः परस्परसमुच्चयार्थः। विद्या मोक्षसाधनं तत्वज्ञानं इति एवं अविद्यात्वविद्यात्वरूपेण ज्ञाता पण्डितैर्निश्चिता। नचिकेतसं त्वं तयोरविद्याविद्ययोर्मध्ये विद्याभीप्सिनं ज्ञानार्थिनं मन्येऽहं जानामि। तत्र हेतुमाह – नेति। यतः कामा अज्ञानां प्रार्थनाविषयभूता अप्सरआदयो बहवोऽनेकविधा अपि त्वा त्वां न आलोलुपन्तः श्रेयोमार्गान्न विच्छेदं कृतवन्तः। अतो त्वां ज्ञानार्थिनं श्रेयोभाजनमहं मन्ये इत्यभिप्रायः॥४॥