ॐ गुरुपरमात्मने नमः



कठोपनिषत् २.०३ – स त्वं प्रियान् प्रियरूपाꣳश्च

त्वं तु विवेकिनां मुख्योऽसीत्याह –

स त्वं प्रियान् प्रियरूपाꣳश्च कामानभिध्यायन्नचिकेतोऽत्यस्राक्षीः।
नैताꣳ सृकां वित्तमयीमवाप्तो यस्यां मज्जन्ति बहवो मनुष्याः॥२.३॥

हे नचिकेतः स श्रेयोमार्गग्राही मम शिष्यस्त्वं प्रियान् प्रीतिविषयान् पुत्रादीन् प्रियरूपान् प्रियं प्रीतिविषयो रूपं येषां तानप्सरआदीन् कामान् काम्यपदार्थान् अभिध्यायन् अनित्यत्वासारत्वदुःखप्रदत्वादिदोषवत्त्वेन चिन्तयन् अत्यस्राक्षीः परित्यक्तवानसि अहो बुद्धिमत्ता तव एतां सृङ्कां सृतिं कुत्सितां मूढजनप्रवृत्तिविषयीभूतां वित्तमयीं धनप्रायां नावाप्तः न प्राप्तवानसि यस्यां सुतौ बहवोऽनेके मनुष्याः अज्ञजनाः मज्जन्ति सीदन्ति क्लिश्यन्तीत्यर्थः॥३॥