ॐ गुरुपरमात्मने नमः



कठोपनिषत् २.०२ – श्रेयश्च प्रेयश्च मनुष्यमेतः

ननु स्वाधीनकर्तव्यताकयोः मोक्षाभ्युदयसाधनयोर्विद्याकर्मणोरुत्तमाधमफलं जानन् सन् लोकः कथं प्रायेणाभ्युदयसाधनमेवादत्ते न मोक्षसाधनमित्याशङ्कय मोक्षाभ्युदयसाधनयोर्विद्याकर्मणोर्भेदज्ञानाभावादित्याह –

श्रेयश्व प्रेयश्च मनुष्यमेतस्तौ सम्परीत्य विविनक्ति धीरः।
श्रेयो हि धीरोऽभिप्रेयसो वृणीते प्रेयो मन्दो योगक्षेमाद्वृणीते॥२॥

श्रेयश्च प्रेयश्च विद्याकर्मणी मनुष्यं पुरुषं एतः कर्तव्यतया प्राप्नुवतः। तौ मोक्षाभ्युदयसाधनभूतौ श्रेयःप्रेयःपदार्थों सम्परीत्य मनसा तयोः स्वरूपं विचार्य धीरो बुद्धिमानुत्तमाधिकारी विविनक्ति अनायाससाध्या महाफला विद्या बह्वायाससाध्यमल्पफलं च कर्मेति विवेकेन जानाति। एवं विविच्य धीरो विवेकी प्रेयसः अभ्युदयसाधनभूतकर्मस्वरूपात् श्रेयः श्रेष्ठं मोक्षसाधनीभूतं ज्ञानमेवाभिवृणीते गृह्णाति। मन्दोऽल्पबुद्धिः पुरुषस्तु योगक्षेमात् अप्राप्तप्राप्तिप्राप्तसंरक्षणात्मकयोगक्षेमनिमित्तं प्रेयो वृणीते अविद्यात्मकं कर्म गृह्णातीत्यर्थः॥२.२॥