कठोपनिषत् २.०१ – अन्यच्छ्रेयोऽन्यदुतैव
विषयेभ्यो विरक्तत्वेन परीक्षितं नचिकेतसं मोक्षहेतुकेवलविद्यार्थित्वेन स्तोतुं मोक्षाभ्युदयसाधनयोर्विद्याविद्ययोर्विभागं तावन्मृत्युराह –
अन्यच्छ्रेयोऽन्यदुतैव प्रेयस्ते उभे नानार्थे पुरुषꣳ सिनीतः।
तयोः श्रेय आदानस्य साधु भवति हीयतेऽर्थाद्य उ प्रेयो वृणीते॥
श्रेयः मोक्षहेतुर्विद्या अन्यत्पृथगेव प्रेयः अभ्युदयसाधनं कर्म उत अपि अन्यदेव पृथगेव ते विद्याकर्मणी उभे नानार्थे भिन्नफले सती पुरुषं मोक्षाभ्युदयात्मकफलार्थिनं सिनीतः स्वस्मिन्नासक्तिलक्षणबन्धनं कुरुतः। तयोः मोक्षाभ्युदयसाधनयोर्विद्याकर्मणोर्मध्ये श्रेयः आददानस्य मोक्षसाधनविद्याग्रहणं कुर्वतः पुरुषस्य साधु भवति मोक्षाख्यमुत्कृष्टं फलं भवति य उ यस्त्वविवेकी प्रेयो वृणीते अभ्युदयरूपजन्यफलहेत्वविद्यात्मकं कर्म गृह्णाति स पुरुषः अर्थात् मोक्षाख्यात् प्रयोजनात् हीयते वियुज्यते मोक्षरूपं फलमप्राप्य कर्मजन्यानित्यफलं प्राप्नोतीति भावः॥२.१॥