कठोपनिषत् १.२८ – अस्मिन्निदं विचिकित्सन्ति मृत्यो
यस्मिन्निदं विचिकित्सन्ति मृत्यो यत्साम्पराये महति ब्रूहि नस्तत्।
योऽयं वरो गूढमनुप्रविष्टो नान्यं तस्मान्नचिकेता वृणीते॥२८॥
इति प्रथमेऽध्याये प्रथमा वल्ली॥१॥
सम्परायः परलोकः तत्सम्बन्धी साम्परायः। हे मृत्यो। यस्मिन् साम्पराये परलोकसम्बन्धिन्यात्मतत्वे देवा अपि इदं अस्ति नास्ति वेत्याकारकं यथा स्यात्, तथा विचिकित्सन्ति संशयाश्रया भवन्ति। तस्यात्मतत्वस्य यन्निर्णयविज्ञानं महति महत्प्रयोजननिमित्ते मोक्षार्थे तन्नोऽस्मभ्यं ब्रूहि कथयेति योजना। श् रुतिराह – योऽयमिति। योऽयं प्रकृतात्मविज्ञानरूपो वरो गूढमनुप्रविष्टो गोप्यतां प्राप्तः तस्माद्वरादन्यं वरं नचिकेता न वृणीते न प्रार्थयते इत्यर्थः॥२८॥
इति श्रीकठवल्यां प्रथमाध्याये प्रथमवल्लीटीका समाप्ता॥१॥