कठोपनिषत् १.२७ – अजीर्यताममृतानामुपेत्य
उत्तमफललाभे सति निकृष्टं कामयमानोऽहं मूर्ख एव स्यामतः स एव वरः प्रार्थनीय इत्याह –
अजीर्यताममृतानामुपेत्य जीर्यन् मर्त्यः क्वधःस्थः प्रजानन्।
अभिध्यायन् वर्णरतिप्रमोदानतिदीर्घे जीविते को रमेत॥२७॥
मर्त्यो मरणधर्मो मनुष्यः अजीर्यतां जरारहितानां अमृतानां चिरकालस्थायिनां देवानां उपेत्य सन्निधिं प्राप्य प्रजानन् तेभ्य उत्कृष्टफलसंभवं प्रजानन् सन् कथं निकृष्टं नश्वरं वरान्तरं वृणीतेति शेषेणान्वयः। कीदृशो मर्त्यः – जीर्यन् जरावान्। पुनः कीदृशः – क्वधःस्थः, कुः पृथिवी सा चान्तरिक्षादधः तत्र स्थितः सन्नित्यर्थः। क्वधःस्थ इत्यस्य स्थाने ‘क्व तदास्थ’ इति पाठे तु तत् तस्मिन् पुत्रादिरूपे वरान्तरे आस्था आसक्तिर्यस्य सः तदास्थः। स क्व। अतितुच्छ इत्यर्थः। प्रजानन् उत्कृष्टफलसम्भवं जानन् कथम् निकृष्टमस्थिरं वरान्तरं वृणीत इतिशेषः। किञ्च वर्णरतिप्रमोदान् वर्णं दिव्यस्त्रीणां सौन्दर्यम्। रतिः ताभिः सह क्रीडा। ताभ्यां जाता ये प्रमोदाः सुखविशेषास्तान् अनित्यत्वेन दुःखदत्वेन चाभिध्यायन् सञ्चिन्तयन् सन् अतिदीर्घे जीविते चिरकालसञ्जीवने को रमेत कः पुरुषः प्रसज्जेत्। न कोऽपीत्यर्थः॥२७॥