ॐ गुरुपरमात्मने नमः



कठोपनिषत् १.२६ – न वित्तेन तर्पणीयो मनुष्यः

किञ्च –

न वित्तेन तर्पणीयो मनुष्यो लप्स्यामहे वित्तमद्राक्ष्म चेत् त्वा।
जीविष्यामो यावदीशिष्यसि त्वं वरस्तु मे वरणीयः स एव॥२६॥

वित्तेन भोग्यपदार्थजातेन मनुष्यो कोपि पुरुषो न तर्पणीयः तृप्तिं न प्रापणीयः। वित्तादिलाभस्य तु भवद्दर्शनादेव सिद्धत्वान्न स प्रार्थनीय इत्याह – लप्स्यामहे इति। चेत् यतः त्वा त्वां अद्राक्ष्म नेत्रैर्वयं दृष्टवन्तोऽतो वित्तं लप्स्यामहे प्राप्स्यामः चिरजीविनमपि भवदीयशिष्यत्वेन लब्धत्वान्नार्थनीयमित्याह – जीविष्याम इति। हि यस्माद्यावत्कालं त्वं ईशिष्यसि ईशिष्यसे ऽनुकम्पया प्राणिनां शास्ता भविष्यसि तावत्कालं वयं जीविष्यामः जीवनं प्राप्स्यामः। सर्वमारकः त्वमसि, स च त्वमस्माकं गुरुः, गुरोश्च शिष्ये ऽनुकम्पाशालित्वान्नास्माकं मृत्युतो भयमिति भावः। वरस्तु स एव आत्मवेदनरूप एव मे मम वरणीयः प्रार्थनीयः॥२६॥